Discover this podcast and so much more

Podcasts are free to enjoy without a subscription. We also offer ebooks, audiobooks, and so much more for just $11.99/month.

Bagla Dashak Stotra बगला दशक स्तोत्र

Bagla Dashak Stotra बगला दशक स्तोत्र

FromRajat Jain ? #Chanting and #Recitation of #Jain & #Hindu #Mantras and #Prayers


Bagla Dashak Stotra बगला दशक स्तोत्र

FromRajat Jain ? #Chanting and #Recitation of #Jain & #Hindu #Mantras and #Prayers

ratings:
Length:
10 minutes
Released:
May 7, 2022
Format:
Podcast episode

Description

Bagla Dashak Stotra बगला दशक स्तोत्र ★ सुवर्णाभरणां देवीं, पीत ब्रह्मास्त्र विद्यां बगलां, वैरिणां स्तम्भनीं भजे।।(१)

यस्मिंल्लोका अलोका अणु-गुरु-लघवः

स्थावरा जंगमाश्च ।

सम्प्रोताः सन्ति सूत्रे मणय इव वृहत् -

तत्त्वमास्तेऽम्बरं तत् ॥

पीत्वा पीत्यैक- शेषा परि-लय-समये

भाति या स्व-प्रकाशा |

तस्याः पीताम्बरायास्तव जननि ! गुणान्

के वयं वक्तुमीशाः ।। (२) आद्यैस्त्रियाऽक्षरैर्यद् विधि-हरि गिरिशींस्त्रीन् सुरान् वा गुणांश्च, मात्रास्तिस्त्रोऽप्यवस्थाः सततमभिदधत् त्रीन् स्वरान् त्रींश्च लोकान् । वेदाद्यं त्यर्णमेकं विकृति-विरहितं बीजमों त्वां प्रधानम्, मूलं विश्वस्य तुर्य्यं ध्वनिभिरविरतं वक्ति तन्मे श्रियो स्यात् ॥ सान्ते रान्तेन वामाक्षणि विधु-कलया राजिते त्वं महेशि ! बीजान्तःस्था लतेव प्रविलससि सदा सा हि माया स्थिरेयम् । जप्ता श्याताऽपि भक्तैरहनि निशि हरिद्राक्त-वस्त्रावृतेन । शत्रून् स्तभ्नाति कान्तां वशयति विपदो हन्ति वित्तं ददाति ॥ मौनस्थः पीत-पीताम्बर-वलित वपुः

<
(४) केसरीयासवेन । कृत्वाऽन्तस्तत्त्व-शोधं कलित-शुचि सुधा-तर्पणोऽर्चा त्वदीयाम् । कुर्वन् पीतासनस्थः कर-धृत रजनी ग्रन्थि-मालोऽन्तराले । ध्यायेत् त्वां पीत-वर्णां पटु-युवति युतो हीप्सितं किं न विन्देत् ॥ (4) वन्दे स्वर्णाभ-वर्णा मणि-गण विलसद्धेम-सिंहासनस्थाम् । पीतं वासो वसानां वसु-पद-मुकुटोत्तंस हारांगदाढ्याम् । पाणिभ्यां वैरि-जिह्वामध उपरि-गदां विभ्रतीं तत्पराभ्याम् । हस्ताभ्यां पाशमुच्चैरध उदित-वरां वेद बाहुं भवानीम् ।। (७)

मायाद्या च द्वि-ठान्ता भगवति ! बगलाख्या चतुर्थी-निरुढा । विद्यैवास्ते य एनां जपति विधि युतस्तत्व शोधं निशीथे। दाराढ्यः पञ्चमैस्त्वां यजति स हि दृशा यं यमीक्षेत तं तम् । स्वायत्त प्राण-बुद्धीन्द्रिय-मय- पतितं पादयोः पश्यति द्राक् ॥ (८)

माया-प्रद्युम्न योनिव्यनुगत-बगलाऽग्रे च मुख्यै गदा-धारिण्यै । स्वाहेति तत्त्वेन्द्रिय-निचय-मयो मन्त्र राजश्चतुर्थः । पीताचारो य एनं जपति कुल-दिशा शक्ति-युक्तो निशायाम् । स प्राज्ञोऽभीप्सितार्थाननुभवति सुखं सर्व-तन्त्र - सवतन्त्रः ॥ (९)

श्री माया -योनि-पूर्वा भगवति बगले! मे श्रियं देहि देहि, स्वाहेत्थं पञ्चमोऽयं प्रणव-सह-कृतो भक्त-मन्दार-मन्त्रः | सौवर्ण्या मालयाऽमुं कनक- विरचिते यन्त्रके पीत-विद्याम् । ध्यायन् पीताम्बरे ! त्वां जपति य इह स श्री समालिंगितः स्यात् ॥ (१०) एवं पञ्चापि मन्त्रा अभिमत फलदा विश्व-मातुः प्रसिद्धाः, देव्या पीताम्बरायाः प्रणत-जन कृते काम-कल्पद्रुमन्ति । एतान् संसेवमाना जगति सुमनसः प्राप्त

कामाः कवीन्द्राः । धन्या मान्या वदान्या सुविदित यशसो देशिकेन्द्रा भवन्ति ॥ करस्थ चषकस्यात्र, संभोज्य झषकस्य च । बगला- दशकाध्येतुर्मातंगी मशकायते ॥ ★
Released:
May 7, 2022
Format:
Podcast episode

Titles in the series (100)

Chanting And Recitation Of Jain & Hindu Mantras And Prayers. Please subscribe to my youtube channel : https://youtube.com/channel/UCmmeT83dQo1WxHyELqwx7Qw