Discover this podcast and so much more

Podcasts are free to enjoy without a subscription. We also offer ebooks, audiobooks, and so much more for just $11.99/month.

Vani Prashnavali Stuti वाणी प्रश्नावली स्तुति

Vani Prashnavali Stuti वाणी प्रश्नावली स्तुति

FromRajat Jain ? #Chanting and #Recitation of #Jain & #Hindu #Mantras and #Prayers


Vani Prashnavali Stuti वाणी प्रश्नावली स्तुति

FromRajat Jain ? #Chanting and #Recitation of #Jain & #Hindu #Mantras and #Prayers

ratings:
Length:
7 minutes
Released:
Aug 2, 2022
Format:
Podcast episode

Description

Vani Prashnavali Stuti वाणी प्रश्नावली स्तुति • किं नाहं पुत्रस्तव मातुः सचराचरस्य जगतॊऽस्य ।

किं मां दूरीकुरुषॆ दॆवि गिरां ब्रूहि कारणं तत्र ॥ १ ॥


किं चाहुरार्यपादास्त्वद्भक्ता मद्गुरूत्तमाः पूर्वं ।

औरसतनयं मां तव कस्माद्दूरीकरॊषि वद वाणि ॥ २ ॥


आनीय दूरतॊ मां मातस्त्वत्पादसविधमतिकृपया ।

परिपाल्य च सुचिरं मां कस्माद्दूरीकरॊषि वद वाणि ॥ ३ ॥


अतिपरिचयादवज्ञा प्रभवॆत्पुत्रॆषु किं सवित्रीणां ।

नहि सा क्वचिदपि दृष्टा कस्माद्दूरीकरॊषि वद वाणि ॥ ४ ॥


कादाचित्कनमस्कृतिकर्तॄणामप्यभीष्टदॆ तरसा ।

नाहं सकृदपि नन्ता कस्माद्दूरीकरॊषि वद वाणि ॥ ५ ॥


गुरुरूपेणाबाल्यात्सॊढ्वा मन्तूंश्च मत्कृतान्विविधान् ।

परिरक्ष्य करुणया मां कस्माद्दूरीकरॊषि वद वाणि ॥ ६ ॥


जगतां पालनमनिशं कुर्वन्त्यास्तॆ भवॆत्कियान्भारः ।

अहमम्ब दीनवर्यः कस्माद्दूरीकरॊषि वद वाणि ॥ ७ ॥


पापान्निवार्य सरणौ विमलायां मॆ प्रवर्तनॆ तरसा ।

कर्तव्यॆ सति कृपया कस्माद्दूरीकरॊषि वद वाणि ॥ ८ ॥


यद्यप्यन्यानन्यान्दॆवानाराधयामि न त्वं तॆ ।

सर्वात्मिकॆति चपलः कस्माद्दूरीकरॊषि वद वाणि ॥ ९ ॥


यात्राशक्तमिमं मां गलितशरीरं रुजा समाक्रान्तं ।

पात्रमहॆतुकदयायाः कस्माद्दूरीकरॊषि वद वाणि ॥ १० ॥


तव सद्मनि गुरुसदनॆ विद्यातीर्थालयॆ च बहुसुखतः ।

खॆलां कुर्वन्तं मां कस्माद्दूरीकरॊषि वद वाणि ॥ ११ ॥


त्वत्क्षॆत्रनिकटराजन्नरसिंहाख्याचलॆन्द्र शृङ्गाग्रॆ ।

स्वैरविहारकृतं मां कस्माद्दूरीकरॊषि वद वाणि ॥ १२ ॥


त्वत्पादपूततुङ्गातीरॆ विजनॆ वनॆ चरन्तं मां ।

अनुघस्रं मॊदभरात् कस्माद्दूरीकरॊषि वद वाणि ॥ १३ ॥


तुङ्गातीरॆ दिनकरनिवॆशनिकटस्थलॆ विपुलॆ ।

ध्यायन्तं परतत्वं कस्माद्दूरीकरॊषि वद वाणि ॥ १४ ॥


तुङ्गातीरॆ रघुवरमन्दिरपुरतः सुदीर्घपाषाणॆ ।

कुतुकाद्विहरन्तं मां कस्माद्दूरीकरॊषि वद वाणि ॥ १५ ॥


जातु च नरसिंहपुरॆ तुङ्गातीरॆ सुसैकतॆ मॊदात् ।

विहृतिं कुर्वाणं मां कस्माद्दूरीकरॊषि वद वाणि ॥ १६ ॥


यतिवरकृतात्मविद्याविलासमनिशं पठन्तमतिमॊदात् ।

कुहचित्तुङ्गातीरॆ कस्माद्दूरीकरॊषि वद वाणि ॥ १७ ॥


शङ्करभगवत्पादप्रणीतचूडामणिं विवॆकादिम् ।

शृण्वन्तं नृहरिवनॆकस्माद्दूरीकरॊषि वद वाणि ॥ १८ ॥

Released:
Aug 2, 2022
Format:
Podcast episode

Titles in the series (100)

Chanting And Recitation Of Jain & Hindu Mantras And Prayers. Please subscribe to my youtube channel : https://youtube.com/channel/UCmmeT83dQo1WxHyELqwx7Qw