Discover this podcast and so much more

Podcasts are free to enjoy without a subscription. We also offer ebooks, audiobooks, and so much more for just $11.99/month.

Padmavati Kavacham पद्मावती कवचम्

Padmavati Kavacham पद्मावती कवचम्

FromRajat Jain ? #Chanting and #Recitation of #Jain & #Hindu #Mantras and #Prayers


Padmavati Kavacham पद्मावती कवचम्

FromRajat Jain ? #Chanting and #Recitation of #Jain & #Hindu #Mantras and #Prayers

ratings:
Length:
14 minutes
Released:
Jul 27, 2022
Format:
Podcast episode

Description

पद्मावती-कवचम्‌ 

श्री भैरव उवाच ।

अधुना कवचं दिव्यं मन्त्र-गर्भं वराभयम्‌।
वक्ष्ये पार्वति भक्ताते वज्र-पञ्जरक्‌-आभिधम्‌ ॥१॥
गुह्यं च परमं गुह्यं सर्वस्वं मे रहस्यकम्‌ ।
सर्व-मन्त्र-मयं तत्त्वं देवी पद्मावती प्रियम्‌ ॥२॥
विना-ज्ञानेन सिद्धिः स्यात्‌-कवचेन्द्रेण पार्वति ।
मन्त्रस्या-अस्य महादेव्या नाख्येयं यत्र-कुत्र-चित्‌ ॥३॥
अस्य धारण-मात्रेण भैरवोऽहं शिवोऽस्म्यहम्‌ ।
भैरवो-अहं, शिवो-अस्म्य्‌-अहम्‌
विष्णु-र्नारायणो लोके ब्रह्मलोक पितामहः॥४॥
इन्द्रो दिवस्पति-र्देवि गुरु-र्वागीशताङ्‌-गतः।
शुक्रो दैत्य-गुरु-र्देवि यः पठेद्‌-श्रावयेद्‌-अपि ॥५॥
धारयेन्‌-मूर्ध्नि वा बाहौ, सभवेद्भोगमोक्षभाक्‌ ।
स-भवेद्‌-भोग-मोक्ष-भाक्‌
कवचस्या-अस्य देवेशि सदाशिव ऋषिरुढतः॥६॥
त्रिष्टुप छन्द इति-ख्यातं “देवी पद्मावती” स्मृता ।
रमाबीजं पराशक्तिः कामः कीलकमीश्वरि ॥७॥
भोगाप-वर्ग सिध्यर्थं धारये-विनियोग:।

॥ विनियोग ॥

ॐ अस्य श्री-पद्मावती-वज्र-पञ्जर-कवचस्य श्री-सदाशिव-ऋषिः,त्रिष्टुप-छन्दः श्री-सर्वज्ञ-ईश्वर-सहिता श्री-पद्मावती-देवता, “श्रीं” बीजं “ह्रीं” शक्तिः “क्लीं” कीलकं, श्री-भोगापवर्ग-सिद्धयर्थं कवचे पाठे/धारणे विनियोगः॥

॥ कवच-मूल पाठ ॥

ॐ ह्रीं श्रीं मे शिरः पातु राज्य-लक्ष्मीः शिवप्रिया ।
क्लीं ब्लूं फट्‌ पातु नेत्रे महालक्ष्मी-र्हरिप्रिया ॥८॥

ॐ ऐं क्लीं मे श्रुती पातु सिद्धलक्ष्मी शिवासना ।
दयावती पातु नासां पातु सत्यवती मुखम्‌ ॥९॥

कण्ठं यशोवती पातु स्कन्धौपात्वमरावती।
प्रभावती भुजौ पातु, पायाद्वनवती करौ ॥१०॥

वक्षः क्रियावती पातु स्तनौ पातुमरावती ।
कुक्षिं मे कमला पातु, नाभिं मे विमलावतु ॥११॥

पार्श्वौममावृतान्माल विशालाक्षीं कटिं मम ।
पृष्ठं कपालिनी पातु लिङ्गं मेऽवतु मालिनी ॥१२॥

हारिणी पातु मे मेढ्रे गुदं हालाचतान्‌-मम ।
ममोरू बालिका पातु जानू मे कोमलावतु ॥१३॥

बलाममावताज्‌-जङ्घे गुल्फौ सेव्याद्बलाकिनी ।
पादौ मे शाकिनी पातु, लाकिनी नखरान्‌-मम ॥१४॥

पादादिमूर्धपर्यन्तं डाकिनी पातु मेवपुः।
शिरसः पाद-पर्यन्तं खेचरी सकलं वपुः॥१५॥

पूर्वे मां पातु ब्रह्माणी वह्नौ नारायणी च माम्‌ ।
पश्चिमे पातु मां नित्यं मङ्गलाख्यापराजिता ॥१६॥

वायव्ये पातु कौमारी वाराहीचोत्तरेऽवतु ।
ऐशान्यां नारसिंही मां पातु सर्वत्र सर्वदा ॥१७॥

असिताङ्गः प्रभातेव्यान्‌-मध्यान्हे रुरु-भैरवः।
निशान्तेऽवतुसोन्मत्तः सर्वदा-मां कपालकः॥१८॥

रात्रि-र्दिनं भीषणेशः संहारः सर्वतोऽवतु ।
सर्वतः सर्वदा सत्यं रणे राजभय-आदिषु ॥१९॥

पातु मां सकल-त्रं च देवी पद्मावती परा ।
इन्द्रोमे कमलां पातु पातु वन्हि भयाच्च-माम्‌ ॥२०॥

धर्मराजोऽवताद्‌-वर्मं रक्षोभीतिषुनिन्दतिः।
वरुणः सलिला पातु कल्पान्तपवनान्मरुत्‌ ॥२१॥

धनं धनपतिः पायादैश्वर्य परमेश्वरः।
ऊर्ध्वं ब्रह्मा सदा पायादधोनारायणोऽवतुः॥२२॥

सर्वतः सकलं सेव्यात्सवज्ञेश्वरभैरवः ।
ॐ ॐ ॐ वं वं ॐ विषाद्विषधरात्पद्मावती पातुमाम्‌ ॥२३॥

ह्रीं ह्रीं ह्रीं ह ह हा ह्सौः हयगजन्त्रासात्‌-परापातु माम्‌ ।
श्रीं श्रीं श्रीं श श शा शशाङ्क-मुकुटः सर्वज्ञ-नाथोऽवतु ॥२४॥

क्लीं क्लीं क्लीं कलिपावतोरिपु भयान्नागेन्द्रभूनायकी ।ॐ ॥
Released:
Jul 27, 2022
Format:
Podcast episode

Titles in the series (100)

Chanting And Recitation Of Jain & Hindu Mantras And Prayers. Please subscribe to my youtube channel : https://youtube.com/channel/UCmmeT83dQo1WxHyELqwx7Qw