Discover this podcast and so much more

Podcasts are free to enjoy without a subscription. We also offer ebooks, audiobooks, and so much more for just $11.99/month.

Vairagya Ashtakam वैराग्य अष्टकम्

Vairagya Ashtakam वैराग्य अष्टकम्

FromRajat Jain ? #Chanting and #Recitation of #Jain & #Hindu #Mantras and #Prayers


Vairagya Ashtakam वैराग्य अष्टकम्

FromRajat Jain ? #Chanting and #Recitation of #Jain & #Hindu #Mantras and #Prayers

ratings:
Length:
5 minutes
Released:
Feb 29, 2024
Format:
Podcast episode

Description

Vairagya Ashtakam वैराग्य अष्टकम्

गृहे पर्यन्तस्थे द्रविणकणमोषं श्रुतवता,
स्ववेश्मन्यारक्षा क्रियत इति मार्गोऽयमुचितः।
नरानोद्वाद्गेहात् प्रतिदिनं समाकृष्यनयतः,
कृतान्तात् किं शङ्का न हि भवति रजाग्रत जनाः ॥1॥

क्वचिद्विद्वगोष्ठी क्वचिदपि सुरामत्त कलहः,
क्वचिद्वीणावादः क्वचिदऽपि च हा हेतिरुदितम्।
क्वचिद्रम्यारामा क्वचिदऽपि जराजर्जरतनुर् ।
न ज्ञातं (जाने) संसारः किममृतमयः किं विषमयः ।।2।।

वपुः कुब्जीभूतः गतिरपि तथा यष्टि शरणा,
विशीर्णा दन्तालिः श्रवण विकलं श्रोत्रयुगलम्।
शिरः शुक्लं चक्षुस्तिमिर पटलैरावृत महो,
मनो मे निर्लज्जं तदपि विषयेभ्यः स्पृहयति ॥३॥

अजानन्दाहात्म्यं पततिशलभो दीप दहने,
समीनोऽप्यज्ञानाद्-वडिशयुत-मश्नाति पिशितम्।
विजानन्तोऽप्येते वयमिह विपज्जाल जटिलान्,
नमुंचया कामान्नहो गहनं मोह महिमा ।।4।।

आदित्यस्यगता गतैरह रहः संक्षीयते जीवतं,
व्यापारैर्बहु कार्यभार गुरुभिः कालो न विज्ञायते।
दृष्ट्वा जन्म जरा विपत्ति मरणं, त्रासं च नोत्पद्यते,
पीत्त्वा मोहमयीं प्रमाद मदिरामुन्मत्त भूतं जगत् ।।5।।

निः स्वोवष्टि शतं शती दशशतं लक्षं सहस्राधिपो,
लक्षेशः क्षितिपालतां क्षितिपतिश्चक्रेशतां वांछति।
चक्रेशः सुरराजतां सुरपतिर्ब्रह्मास्पदं वांछति,
ब्रह्मा शैव पदं शिवो व हरिपदं ह्याशावधिं को गतः ॥6॥

जीर्णो एव मनोरथाः स्वहृदये स्यातं जरा यौवनं,
हन्ताङ्गेषु गुणाश्च वन्ध्य फलतां यातागुणज्ञैर्विना।
किंयुक्तं सहसाम्युपैति बलवान् काल कृतान्तोऽक्ष्मी,
ह्याज्ञात स्मर जिनेन्द्राघ्रि युगलं मुक्त्वास्ति नान्यागति ।।7।।

आशा नाम नदी मनोरथ जलं, तृष्णा तर‌ङ्गाकुला,
राग ग्राहवती वितर्क विहगा धैर्य द्रुमध्वंसिनी।
मोहावर्तसुदुस्तरातिगहना प्रोत्तुड्ग् चिन्ता तरी,
तस्याः पारगता विशुद्ध मनसो नन्दति योगीश्वराः ॥8॥
Released:
Feb 29, 2024
Format:
Podcast episode

Titles in the series (100)

Chanting And Recitation Of Jain & Hindu Mantras And Prayers. Please subscribe to my youtube channel : https://youtube.com/channel/UCmmeT83dQo1WxHyELqwx7Qw