Discover millions of ebooks, audiobooks, and so much more with a free trial

Only $11.99/month after trial. Cancel anytime.

शिव शक्ति स्तोत्र
शिव शक्ति स्तोत्र
शिव शक्ति स्तोत्र
Ebook294 pages1 hour

शिव शक्ति स्तोत्र

Rating: 0 out of 5 stars

()

Read preview

About this ebook

शिव शक्ति स्तोत्र दस महाविद्या और नव दुर्गा की प्रार्थना और समझ में सहायता करता है और शिव शक्ति के विभिन्न रूपों के प्रति पूर्ण समर्पण के लिए आवश्यक है।

Languageसंस्कृतम्
Release dateJun 1, 2022
शिव शक्ति स्तोत्र

Related to शिव शक्ति स्तोत्र

Titles in the series (5)

View More

Related ebooks

Related categories

Reviews for शिव शक्ति स्तोत्र

Rating: 0 out of 5 stars
0 ratings

0 ratings0 reviews

What did you think?

Tap to rate

Review must be at least 10 words

    Book preview

    शिव शक्ति स्तोत्र - Munindra Misra

    दस महाविद्या शक्ति

    अष्टोत्तारा शतनामावली:

    दशमहाविद्या स्तोत्रम् १

    ॐ नमस्ते चण्डिके चण्डि चण्डमुण्डविनाशिनि।

    नमस्ते कालिके कालमहाभयविनाशिनि ॥१॥

    शिवे रक्ष जगद्धात्रि प्रसीद हरवल्लभे।

    प्रणमामि जगद्धात्रीं जगत्पालनकारिणीम् ॥२॥

    जगत् क्षोभकरीं विद्यां जगत्सृष्टिविधायिनीम्।

    करालां विकटां घोरां मुण्डमालाविभूषिताम् ॥३॥

    हरार्चितां हराराध्यां नमामि हरवल्लभाम्।

    गौरीं गुरुप्रियां गौरवर्णालङ्कारभूषिताम् ॥४॥

    हरिप्रियां महामायां नमामि ब्रह्मपूजिताम्।

    सिद्धां सिद्धेश्वरीं सिद्धविद्याधरङ्गणैर्युताम् ॥५॥

    मन्त्रसिद्धिप्रदां योनिसिद्धिदां लिङ्गशोभिताम्।

    प्रणमामि महामायां दुर्गां दुर्गतिनाशिनीम् ॥६॥

    उग्रामुग्रमयीमुग्रतारामुग्रगणैर्युताम्।

    नीलां नीलघनश्यामां नमामि नीलसुन्दरीम् ॥७॥

    श्यामाङ्गीं श्यामघटितां श्यामवर्णविभूषिताम्।

    प्रणमामि जगद्धात्रीं गौरीं सर्वार्थसाधिनीम् ॥८॥

    विश्वेश्वरीं महाघोरां विकटां घोरनादिनीम्।

    आद्यामाद्यगुरोराद्यामाद्यनाथप्रपूजिताम् ॥९॥

    श्रीं दुर्गां धनदामन्नपूर्णां पद्मां सुरेश्वरीम्।

    प्रणमामि जगद्धात्रीं चन्द्रशेखरवल्लभाम् ॥१०॥

    त्रिपुरां सुन्दरीं बालामबलागणभूषिताम्।

    शिवदूतीं शिवाराध्यां शिवध्येयां सनातनीम् ॥११॥

    सुन्दरीं तारिणीं सर्वशिवागणविभूषिताम्।

    नारायणीं विष्णुपूज्यां ब्रह्मविष्णुहरप्रियाम् ॥१२॥

    सर्वसिद्धिप्रदां नित्यामनित्यां गुणवर्जिताम्।

    सगुणां निर्गुणां ध्येयामर्चितां सर्वसिद्धिदाम् ॥१३॥

    विद्यां सिद्धिप्रदां विद्यां महाविद्यां महेश्वरीम्।

    महेशभक्तां माहेशीं महाकालप्रपूजिताम् ॥१४॥

    प्रणमामि जगद्धात्रीं शुम्भासुरविमर्दिनीम्।

    रक्तप्रियां रक्तवर्णां रक्तबीजविमर्दिनीम् ॥१५॥

    भैरवीं भुवनां देवीं लोलजिव्हां सुरेश्वरीम्।

    चतुर्भुजां दशभुजामष्टादशभुजां शुभाम् ॥१६॥

    त्रिपुरेशीं विश्वनाथप्रियां विश्वेश्वरीं शिवाम्।

    अट्टहासामट्टहासप्रियां धूम्रविनाशिनीम् ॥१७॥

    कमलां छिन्नभालाञ्च मातङ्गीं सुरसुन्दरीम्।

    षोडशीं विजयां भीमां धूमाञ्च वगलामुखीम् ॥१८॥

    सर्वसिद्धिप्रदां सर्वविद्यामन्त्रविशोधिनीम्।

    प्रणमामि जगत्तारां साराञ्च मन्त्रसिद्धये ॥१९॥

    इत्येवञ्च वरारोहे स्तोत्रं सिद्धिकरं परम्।

    पठित्वा मोक्षमाप्नोति सत्यं वै गिरिनन्दिनि ॥२०॥

    इति दशमहाविद्यास्तोत्रं सम्पूर्णम्।

    दशमहाविद्या स्तोत्रम् २

    आदि शक्ति त्वमसि काली मुन्दमाल धारिनी ।

    त्वमसि तारा मुन्दहारा विकत सन्गत हारिनी ॥१॥

    त्रिपुरसुंदरी आदि कात्वम् षोडशी परमेस्वरी ।

    सकल मङ्गल मूर्ति रसि जगदम्बिके भुवनेश्वरी ॥२॥

    त्वमसि मातह खद्गहस्ता छिन्नमस्ता भगवती ।

    त्वमसि त्रिपुरा भैरवी मातस्त्वम्ऽअसि धूमावती ॥३॥

    मा तरसि बगलामुखी त्वम् दुष्टबुद्धि विनाशिनी ।

    त्वमसि मातंगि त्वमसि कमलात्मिकांभुजवासिनि ॥४॥

    दशमहाविद्य स्वरूप सकल भुवि बहु सिद्धिदा ।

    मूर्ति भेदा देव भेदो वस्तुतो नहि ते भिदा ॥५॥

    भेद भवम् बुद्धि तो मम दुरमपनयम् सत्वरम् ।

    प्रेम देही पदाम्बुजे श्वेनावरम् यचेवरम् ॥६॥

    काली माता

    ॐ काल्यै नमः। ॐ कपालिन्यै नमः। ॐ कान्तायै नमः।

    ॐ कामदायै नमः। ॐ कामसुन्दर्यै नमः। ॐ कालरात्र्यै नमः।

    ॐ कालिकायै नमः। ॐ कालभैरवपूजितायै नमः।

    ॐ कुरूकुल्लायै नमः। ॐ कामिन्यै नमः।

    ॐ कमनीयस्वभाविन्यै नमः। ॐ कुलीनायै नमः।

    ॐ कुलकर्त्र्यै नमः। ॐ कुलवर्त्मप्रकाशिन्यै नमः।

    ॐ कस्तूरीरसनीलायै नमः। ॐ काम्यायै नमः।

    ॐ कामस्वरूपिण्यै नमः। ॐ ककारवर्णनिलयायै नमः।

    ॐ कामधेन्वै नमः। ॐ कारालिकायै नमः।

    ॐ कुलकान्तायै नमः। ॐ करालास्यायै नमः।

    ॐ कामार्तायै नमः। ॐ कलावत्यै नमः। ॐ कृशोदर्यै नमः।

    ॐ कामाख्यायै नमः। ॐ कौमार्यै नमः।

    ॐ कुलपालिन्यै नमः। ॐ कुलजायै नमः।

    ॐ कुलकन्यायै नमः। ॐ कलहायै नमः।

    ॐ कुलपूजितायै नमः। ॐ कामेश्वर्यै नमः।

    ॐ कामकान्तायै नमः। ॐ कुञ्जेश्वरगामिन्यै नमः।

    ॐ कामदात्र्यै नमः। ॐ कामहर्त्र्यै नमः। ॐ कृष्णायै नमः।

    ॐ कपर्दिन्यै नमः। ॐ कुमुदायै नमः। ॐ कृष्णदेहायै नमः।

    ॐ कालिन्द्यै नमः। ॐ कुलपूजितायै नमः। ॐ काश्यप्यै नमः।

    ॐ कृष्णमात्रे नमः। ॐ कुशिशाङ्ग्यै नमः। ॐ कलायै नमः।

    ॐ क्रींरूपायै नमः। ॐ कुलगम्यायै नमः। ॐ कमलायै नमः।

    ॐ कृष्णपूजितायै नमः। ॐ कृशाङ्ग्यै नमः।

    ॐ किन्नर्यै नमः। ॐ कर्त्र्यै नमः। ॐ कलकण्ठयै नमः।

    ॐ कार्तिक्यै नमः। ॐ कम्बुकण्ठ्यै नमः। ॐ कौलिन्यै नमः।

    ॐ कुमुदायै नमः। ॐ कामजीविन्यै नमः। ॐ कुलस्त्रियै नमः।

    ॐ कीर्तिकायै नमः। ॐ कृत्यायै नमः। ॐ कीर्त्यै नमः।

    ॐ कुलपालिकायै नमः। ॐ कामदेवकलायै नमः।

    ॐ कल्पलतायै नमः। ॐ कामाङ्ग्वर्धिन्यै नमः।

    ॐ कुन्तायै नमः। ॐ कुमुदप्रीतायै नमः।

    ॐ कदम्बकुसुमोत्सुकायै नमः। ॐ कादम्बिन्यै नमः।

    ॐ कमलिन्यै नमः। ॐ कृष्णानन्दप्रदायिन्यै नमः।

    ॐ कुमारीपूजनरतायै नमः। ॐ कुमारीगणशोभितायै नमः।

    ॐ कुमारीरञ्जनरतायै नमः। ॐ कुमारीव्रतधारिण्यै नमः।

    ॐ कङ्काल्यै नमः। ॐ कमनीयायै नमः।

    ॐ कामशास्त्रविशारदायै नमः।

    ॐ कपालखट्वाङ्गधरायै नमः। ॐ कालभैरवरूपिण्यै नमः। ॐ कोटर्यै नमः। ॐ कोटराक्ष्यै नमः। ॐ काशीवासिन्यै नमः।

    ॐ कैलासवासिन्यै नमः। ॐ कात्यायन्यै नमः।

    ॐ कार्यकर्यै नमः। ॐ काव्यशास्त्रप्रमोदिन्यै नमः।

    ॐ कामाकर्षणरूपायै नमः। ॐ कामपीठनिवासिन्यै नमः।

    ॐ कङ्गिन्यै नमः। ॐ काकिन्यै नमः। ॐ क्रीडायै नमः।

    ॐ कुत्सितायै नमः। ॐ कलहप्रियायै नमः।

    ॐ कुण्डगोलोद्भवप्राणायै नमः। ॐ कौशिक्यै नमः।

    ॐ कीर्तिवर्धिन्यै नमः। ॐ कुम्भस्तन्यै नमः।

    ॐ कटाक्षायै नमः। ॐ काव्यायै नमः।

    ॐ कोकनदप्रियायै नमः। ॐ कान्तारवासिन्यै नमः।

    ॐ कान्त्यै नमः। ॐ कठिनायै नमः। ॐ कृष्णवल्लभायै नमः।

    - अथ ह्रदय स्तोत्रम्:

    ॐ कालिका घोर रूपाढ्‌यां सर्वकाम फलप्रदा ।

    सर्वदेवस्तुता देवी शत्रुनाशं करोतु में ॥

    ह्नीं ह्नीं स्वरूपिणी श्रेष्ठा त्रिषु लेकेषु दुर्लभा ।

    तव स्नेहान्मया ख्यातं न देयं यस्य कस्यचित् ॥

    अथ ध्यानं प्रवक्ष्यामि निशामय परात्मिके ।

    यस्य विज्ञानमात्रेण जीवन्मुक्तो भविष्यति ॥

    नागयज्ञोपवीताञ्च चन्द्रार्द्धकृत शेखराम् ।

    जटाजूटाञ्च संचिन्त्य महाकात समीपगाम् ॥

    एवं न्यासादयः सर्वे ये प्रकुर्वन्ति मानवाः ।

    प्राप्नुवन्ति च ते मोक्षं सत्यं सत्यं वरानने ॥

    यंत्रं श्रृणु परं देव्याः सर्वार्थ सिद्धिदायकम् ।

    गोप्यं गोप्यतरं गोप्यं गोप्यं गोप्यतरं महत् ॥

    त्रिकोणं पञ्चकं चाष्ट कमलं भूपुरान्वितम् ।

    मुण्ड पंक्तिं च ज्वालं च काली यंत्रं सुसिद्धिदम् ॥

    मंत्रं तु पूर्व कथितं धारयस्व सदा प्रिये ।

    देव्या दक्षिण काल्यास्तु नाम मालां निशामय ॥

    काली दक्षिण काली च कृष्णरूपा परात्मिका ।

    मुण्डमाला विशालाक्षी सृष्टि संहारकारिका ॥

    स्थितिरूपा महामाया योगनिद्रा भगात्मिका ।

    भगसर्पि पानरता भगोद्योता भागाङ्गजा ॥

    आद्या सदा नवा घोरा महातेजाः करालिका ।

    प्रेतवाहा सिद्धिलक्ष्मीरनिरुद्धा सरस्वती ॥

    एतानि नाममाल्यानि ए पठन्ति दिने दिने ।

    तेषां दासस्य दासोऽहं सत्यं सत्यं महेश्वरि ॥

    ॐ कालीं कालहरां देवीं कंकाल बीज रूपिणीम् ।

    कालरूपां कलातीतां कालिकां दक्षिणां भजे ॥

    कुण्डगोलप्रियां देवीं स्वयम्भू कुसुमे रताम् ।

    रतिप्रियां महारौद्रीं कालिकां प्रणमाम्यहम् ॥

    दूतीप्रियां महादूतीं दूतीं योगेश्वरीं पराम् ।

    दूती योगोद्भवरतां दूतीरूपां नमाम्यहम् ॥

    क्रीं मंत्रेण जलं जप्त्वा सप्तधा सेचनेच तु ।

    सर्वे रोगा विनश्यन्ति नात्र कार्या विचारणा ॥

    क्रीं स्वाहान्तैर्महामंत्रैश्चन्दनं साधयेत्ततः ।

    तिलकं क्रियते प्राज्ञैर्लोको वश्यो भवेत्सदा ॥

    क्रीं हूं ह्नीं मंत्रजप्तैश्च ह्यक्षतैः सप्तभिः प्रिये ।

    महाभयविनाशश्च जायते नात्र संशयः ॥

    क्रीं ह्नीं हूं स्वाहा मंत्रेण श्मशानाग्नि च मंत्रयेत् ।

    शत्रोर्गृहे प्रतिक्षिप्त्वा शत्रोर्मृत्युर्भविष्यति ॥

    हूं ह्नीं क्रीं चैव उच्चाटे पुष्पं संशोध्य सप्तधा ।

    रिपूणां चैव चोच्चाटं नयत्येव न संशयः ॥

    आकर्षणे च क्रीं क्रीं क्रीं जप्त्वाक्षतान् प्रतिक्षिपेत् ।

    सहस्त्रजोजनस्था च शीघ्रमागच्छति प्रिये ॥

    क्रीं क्रीं क्रीं ह्नूं ह्नूं ह्नीं ह्नीं च कज्जलं शोधितं तथा ।

    तिलकेन जगन्मोहः सप्तधा मंत्रमाचरेत् ॥

    ह्रदयं परमेशानि सर्वपापहरं परम् ।

    अश्वमेधादि यज्ञानां कोटि कोटिगुणोत्तमम् ॥

    कन्यादानादिदानां कोटि कोटि गुणं फलम् ।

    दूती योगादियागानां कोटि कोटि फलं स्मृतम् ॥

    गंगादि सर्व तीर्थानां फलं कोटि गुणं स्मृतम् ।

    एकधा पाठमात्रेण सत्यं सत्यं मयोदितम् ॥

    कौमारीस्वेष्टरूपेण पूजां कृत्वा विधानतः ।

    पठेत्स्तोत्रं महेशानि जीवन्मुक्तः स उच्यते ॥

    रजस्वलाभगं दृष्ट्‌वा पठदेकाग्र मानसः ।

    लभते परमं स्थान देवी लोकं वरानने ॥

    महादुःखे महारोगे महासंकटे दिने ।

    महाभये महाघोरे पठेत्स्तोत्रं महोत्तमम् ॥

    सत्यं सत्यं पुनः सत्यं गोपयेन्मातृजारवत् ।

    तारा माता

    ॐ तारिण्यै नमः। ॐ तरलायै नमः। ॐ तन्व्यै नमः।

    ॐ तारायै नमः। ॐ तरुणवल्लर्यै नमः। ॐ तीररूपायै नमः।

    ॐ तर्यै नमः। ॐ श्यामायै नमः। ॐ तनुक्षीणपयोधरायै नमः।

    ॐ तुरीयायै नमः। ॐ तरुणायै नमः।

    Enjoying the preview?
    Page 1 of 1